वांछित मन्त्र चुनें

स पू॒र्व्यः प॑वते॒ यं दि॒वस्परि॑ श्ये॒नो म॑था॒यदि॑षि॒तस्ति॒रो रज॑: । स मध्व॒ आ यु॑वते॒ वेवि॑जान॒ इत्कृ॒शानो॒रस्तु॒र्मन॒साह॑ बि॒भ्युषा॑ ॥

अंग्रेज़ी लिप्यंतरण

sa pūrvyaḥ pavate yaṁ divas pari śyeno mathāyad iṣitas tiro rajaḥ | sa madhva ā yuvate vevijāna it kṛśānor astur manasāha bibhyuṣā ||

पद पाठ

सः । पू॒र्व्यः । प॒व॒ते॒ । यम् । दि॒वः । परि॑ । श्ये॒नः । म॒था॒यत् । इ॒षि॒तः । ति॒रः । रजः॑ । सः । मध्वः॑ । आ । यु॒व॒ते॒ । वेवि॑जानः । इत् । कृ॒शानोः । अस्तुः॑ । मन॑सा । अह॑ । बि॒भ्युषा॑ ॥ ९.७७.२

ऋग्वेद » मण्डल:9» सूक्त:77» मन्त्र:2 | अष्टक:7» अध्याय:3» वर्ग:2» मन्त्र:2 | मण्डल:9» अनुवाक:4» मन्त्र:2


बार पढ़ा गया

आर्यमुनि

पदार्थान्वयभाषाः - (सः) पूर्वोक्त परमात्मा (पूर्व्यः) अनादि है और (पवते) सबको पवित्र करता है। जो (रजः) प्रकृति के रजोगुण को (तिरः) तिरस्कार करके (परिमथायत्) सबको मथन करता है, (सः) वह (मध्वः) मधुरूप है और (आयुवते) परमाणुरूप प्रकृति को आपस में मिलानेवाला है। (वेविजानः) गतिशील है। (कृशानोः) अपनी तेजरूप शक्ति से (अस्तुः) आक्षेप्ता पुरुषों को (मनसा) अपनी मननरूप शक्ति से (बिभ्युषा) भय को देनेवाला है ॥२॥
भावार्थभाषाः - परमात्मा प्रकृति के रजोरूप परमाणुओं का संयोग करके इस सृष्टि को उत्पन्न करता है ॥२॥
बार पढ़ा गया

आर्यमुनि

पदार्थान्वयभाषाः - (सः) असौ परमेश्वरः (पूर्व्यः) अनादिरस्ति। तथा (पवते) पवित्रयति। यः (रजः) प्रकृते रजोगुणं (तिरः) तिरस्कृत्य (परिमथायत्) सर्वान् मथ्नाति (सः) अयं परमात्मा (मध्वः) मधुरूपोऽस्ति। तथा (आयुवते) परमाणुरूपप्रकृतिं मिथो मेलयति च। अथ च (वेविजानः) गतिशीलोऽस्ति (कृशानोः) स्वीयतेजोरूपशक्त्या (अस्तुः) आक्षेपकारि- जनेभ्यः (मनसा) आत्मीयमननरूपबलेन (बिभ्युषा) भयं ददाति ॥२॥